CTET Level -2 (09 June 2024)

Question 1:

भाषाविकासस्य सम्बन्धे किं कथनं निम्नलिखितेषु सत्यम् अस्ति ? 

  • भाषाशिक्षणं पर्यावरणे आश्रितम् अस्ति । 

  • भाषाशिक्षणं दूरदर्शनकार्यक्रमदर्शनेन, आकाशवाणी कार्यक्रमाणां श्रव्यलेखनश्रवणेन च भवति । 

  • भाषाविकासस्य सम्बन्धे किं कथनं निम्नलिखितेषु सत्यम् अस्ति ? 

  • अयं मातृपितृन् वरिष्ठान् च अनुकृत्य शिक्ष्यते ।

Question 2:

कश्चिद् अध्यापकः अष्टमीकक्षायाः छात्रान् नगरस्य, ग्रामस्य वा परितः गत्वा भवनानां महत्त्वपूर्ण-स्थानानां विषये वा सूचनां प्राप्तुं कथयति, यत् ग्रामस्य विषये विज्ञापनं प्रकाशयितुं प्रारूपं निर्मीयेत । अयं प्रयोगः किम् कथ्यते ? 

  • समूहकार्यम् 

  • परियोजना (Project) कार्यम् 

  • समग्र परियोजना कार्यम् 

  • दत्तकार्यम् 

Question 3:

अभिकथनम् (A) : 

यदा त्वम् अल्पवयः असि तदा अन्यभाषायाः शिक्षणं सरलतरम् । 

कारणम् (R) : शुद्धोच्चारणस्य विकासः अपेक्षाकृतः अनायासः भवति यदि अयं आधारभूते स्तरे शिक्षितः । अधस्तनेषूचितमुत्तरं चिनुत 

  • (A) असत्यम् अस्ति, परन्तु (R) सत्यम् अस्ति । 

  •  (A) तथा (R) द्वे सत्ये स्तः, परन्तु (R), (A) इत्यस्य कथनस्य उचितव्याख्या न अस्ति । 

  •  (A) तथा (R) द्वे सत्ये स्तः, (R) च (A) इत्यस्य कथनस्य उचितव्याख्या अस्ति । 

  • (A) सत्यम् अस्ति, परन्तु (R) असत्यम् अस्ति ।

Question 4:

काचित् मातामही गृहे बालकान् पुस्तकात् कथाः रुचिपूर्वकं श्रावयति । अनेन प्रकारेण सा तान् पुस्तकानि नवविचारान् च पठितुं प्रेरयति । अस्यां प्रक्रियायां बालकाः अपि सक्रियाः भवन्ति । एषा पद्धति कथ्यते- 

  • सह - पठनम् ( Shared ) 

  • वार्तालापीय पठनम् (Dialogic) 

  • उच्चैः पठनम् (Aloud Reading) 

  • प्रतिमान- पठनम् (Model) 

Question 5:

शिक्षणसम्बन्धितम् अन्तरं न्यूनीकर्तुं अध्यापिका उपचारात्मकम् अध्यापनं करोति । सा इमानिअन्तराणि केन प्रकारेण अवगच्छति? 

  • समग्रता आधारित परीक्षणेन

  • निदानात्मक परीक्षणेन 

  • प्रतियोगी परीक्षणेन 

  •  सूक्ष्म अध्यापनेन 

Question 6:

यदा कश्विद् वक्ता द्वयोः अनेकासु वा भाषासु विकल्पेन एकस्मिन्नेव वार्तालापे भाषते, एतत्कथ्यते 

  • कूटपरिवर्तनम् 

  •  बहुभाषीयता 

  • द्विभाषीयता 

  • कूटमिश्रणम्

Question 7:

निम्नलिखिताषु का पद्धतिः भवति यस्यां लक्ष्यभाषायाः क्रमिकव्याकरण-संरचनायाः प्रभावपूर्वकं सार्थकं च व्यवस्थितं प्रस्तुतीकरणं अभ्यासश्च क्रियेते ? 

  • सम्प्रेषणात्मकपद्धतिः

  • समग्रभाषापद्धतिः 

  •  निर्माणात्मकपद्धतिः 

  • संरचनात्मकपद्धतिः

Question 8:

कश्चिद् अध्यापकः 'नगरीकरणस्य कारणात् प्रदूषणम्" इत्यस्मिन् विषये विचारोत्तेजनं कर्तुं कथयति । अत्र विचारोत्तेजस्य कोऽर्थः । 

  • तत्कालमेव केनापि विषयेन सम्बद्धानां विचाराणां लेखनम् 

  • कालक्रमानुसारं विचाराणां क्रमबद्धता 

  • अनुच्छेदस्य समाप्तिः 

  • शीर्षवाक्यस्य लेखनम् 

Question 9:

भाषाशिक्षणे निदानात्मकपरीक्षायाः उद्देश्यम् अस्ति 

  • छात्रान् प्रतियोगिपरीक्षाभ्यः सञ्जीकरणम् ।

  • मातृपितृ अध्यापकमेलनेषु मातृपितृभ्यां प्रतिपुष्टः प्रदानम् ।

  • छात्रान् प्रतियोगिपरीक्षाभ्यः सञ्जीकरणम् ।

  • छात्राणां विवरणपत्रे लेखनम् । 

Question 10:

एका शिक्षिका स्वीकृतसहायकपुस्तकात् (Prescribed supplementary reader) एकां लघुकथां अथवा अन्यानि आख्यानानि पठितुं छात्रान् प्रेरयति । सहायकपुस्तकात् पठनाय छात्राणाम् उत्साहवर्धनस्य कः प्रमुखः उद्देश्यः अस्ति? 

  • शैक्षणिककौशलस्य संवर्धनम् 

  • गहनपठनस्य विकासः 

  • मौखिक अध्ययनकौशलस्य विकासः

  • सविस्तरपठनस्य विकासः 

Scroll to Top
MP Government Brings New Recruitment Rules Big Update on RSSB 4th Category Result Big Opportunity in Bihar Revenue Department RPF Bharti 2026 Latest Update by Ankit Bhati SSC CGL 2026 Official Notification Released