CTET Level -1 (23 June 2024)
Question 1:
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत ।
व्याकरणसम्बन्धिदोषादिरहिता व्यवस्थित-क्रियाकारक- विभागसमन्विताया भाषा सा संस्कृतभाषेति कथ्यते । इयं हि भाषा सर्वदोषशून्या अस्ति, अतः देववाणी, गीर्वाण- भारती, अमरभाषा इत्यादिभिः शब्दैः व्यवह्रियते । भाषागतमुदारत्वं मार्दवं मनोज्ञत्वं चास्याः वैशिष्टयम् । सेयं संस्कृतभाषा जगतः सर्वासु भाषासु प्राचीनतमा, सर्वोत्कृष्ट - साहित्य- संयुक्ता च वर्तते । अनन्तानन्तवर्षेषु व्यपगतेष्वपि अस्या माधुर्यम्, उदारत्वं च नाद्यापि विकृतम् । पाश्चात्त्यदेशीया विचारशीलाः कीलहार्न मैक्समूलर- मैकडानाल्ड कीथादयः विद्वांसः संस्कृत भाषायाः प्रशंसामकुर्वन् । सर्वासामार्य-भाषाणामुत्पत्तिः अत एव बभूव । पुरा सर्वे जनाः संस्कृतभाषयैवाभाषन्त । अतः सर्वमपि प्राक्तनं साहित्यं संस्कृतभाषायामेव उपलभ्यते । सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृत भाषायामेव सन्ति । वेदेषु मानवकर्तव्याकर्तव्ययोः सम्यक् निर्धारणमस्ति । ततो वेदानां व्याख्यानभूता ब्राह्मणग्रन्थाः वर्तन्ते । तदनु अध्यात्मविषयप्रतिपादिका उपनिषदो विद्यन्ते, यासां गरिमा पाश्चात्त्यबहुज्ञैरपि गीयते । ततोऽस्माकं गौरवग्रन्थाः षड्दर्शनानि सन्ति। एषामद्यापि विश्वस्य साहित्ये महत्त्वं वर्तते । ततः श्रौतसूत्राणां गृह्यसूत्राणां वेदव्याख्यानभूतानां षडङ्गानां गणनास्ति । महर्षिवाल्मीकिरचितस्य रामायणस्य, महर्षि व्यासरचितस्य महाभारतस्य निर्माणमपूर्वघटनैव वर्तते विश्वसाहित्ये । तत्र दुर्लभस्य कवित्वस्य, नैसर्गिक- सौन्दर्यस्य, अध्यात्मज्ञानस्य नीतिशास्त्रस्य च दर्शनं जायते । ततो भासाश्वघोष - कालिदास - भवभूति - दण्डि - बाण- सुबन्धु-हर्षप्रभृतयो महाकाव्यो नाट्यकाराश्च समायान्ति, येषामुदयेन न केवलमार्यावर्तः, अपितु सकलमेतत् जगत् धन्यमात्मानं मन्यते । कवि वराणामेतेषां वर्णने विद्वांसोऽपि न क्षमाः श्रीमद् भगवतगीता, स्मृतिग्रन्थाः पुराणानि च संस्कृतसाहित्यस्य महात्म्यं प्रकटयन्ति ।
संस्कृतसाहित्यं भारतस्य गौरवमुद्धोषयति । समस्तं देशं च एकतासूत्रे बध्नाति तत् । अस्य साहित्यस्य प्रचारः प्रसारश्च नितान्तं लाभप्रदः ।
'पुरा सर्वे जनाः' कां भाषां भाषन्ते स्म ?
Question 2:
Which one of the following statements is true?
निम्न में कौन-सा कथन सत्य है ?
Question 3:
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत ।
जननीमिव गरीयसीं गुरुतरां स्वमातृभूमिमयोध्यां प्रति लङ्कातः प्रतिष्ठमानस्य भगवतो रामचन्द्रस्येयमुक्तिः साकल्येनात्र उदिद्धयते-
'अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥'
इति । जननी जन्मभूमिश्चेत्युभे सम्मानार्हे पूज्ये चेत्यस्या संक्षेपेणाभिप्रायः । कस्याविदितं तत्थ्यमेतद्यद् जन्मदातृत्वात्, सुतसंवर्धकत्वाच्च कारुण्यमूर्तिर्माता स्वसन्ततीनां जीवनसर्वस्वम् । तत एव श्रुतिः - "मातृदेवो भव" "मातृमान् पुरुषो वेद" इत्यादिभिर वचनैर् मातुर् गौरवं स्फुटम् । महर्षिणा मनुना स्वकीये धर्मशास्त्रे मनुस्मृतौ मातुर् गौरवम् इत्थं प्रतिपादतमस्ति- "माता पृथिव्या मूर्तिस्तु" (मनुस्मृति 2.226) "माता गुरुतरा भूमेर्माता परं दैवतम्" इत्यादीन्यपि वचनानि जनन्याः सर्वातिशयित्वं प्रतिपादयन्ति । मातुर् महत्त्वातिशयस्य कारणेषु विचार्यमाणेषु तथ्यमेतत् पुर आयांति यन्माता ममत्वमूर्तिः, करूणामूर्तिः, क्षमामूर्तिश्च । या स्वकीयैर् दया क्षमा-स्नेहशील-माधुर्य- ममत्व - आदिगुणैर् भुवि दिवि अन्येषु च लोकेषु सर्वान् अतिशेते प्राणिनः । जन्मभूमिर् जनान् जनयन्ती स्वाङ्के धारयन्ती, शस्यादिभिः पोषयन्ती । स्व- जल-फल- वायु-आदिभिश्च पालयन्ती । अत एव जन्मभूमिर् अपि मातेव जनानां मान्या, पूज्या, सम्मानाह च । अथर्ववेदस्य पृथिवीसूक्ते (12-1) मातृभूमेर् गुणाः विस्तरेण वर्णिताः सन्ति । यथा - "माता भूमिः पुत्रोऽहं पृथिव्या: (12-1-12) भूमे मातर् निधेहि मा भद्रया सुप्रतिष्ठिम् । संविदाना दिवा कवे श्रिया मा धेहि भूयाम् ॥ (12.1.63) वयं तुभ्यं बलिहृताः स्याम् (12.1.62) इत्यादिभिर् वचनैर् वेदेषु मातृभूमेर् महिमा वर्णिता ।
मातृभूमेर् अनेनैव गौरवेण आकृष्टा महान्तः पुरुषास् तस्य सम्मानस्य रक्षार्थम् आत्मनो बलिदानं कृत्वा स्वजन्म धन्यं कुर्वन्ति । अस्माकं सम्पूर्ण : इतिहास:- ईदृशानां हुतात्मानां गौरवमय्या गाथया परिपूणोऽस्ति । स्वमातृ भूमेः कृते महाराणा प्रतापसिंहस्य - आत्माहुतिं को न जानाति ? को न जानाति क्षत्रपतिना शिवाजीमहाराजेन स्वमातृभूमि-उद्धाराय कृतं दीर्घकालिकं सङ्घर्षम् ?
प्रथमे स्वतन्त्रतासङ्ग्रामे स्वदेशस्य दासतापाशादुद्धारकर्तुम् बद्धपरिकरैर् नानाफड़नवीस - मङ्गलपाण्डेय- राज्ञीलक्ष्मीबाईप्रभृतिभिः कृता शौर्यमयी आत्माहुतिस्तु समेषां भारतीयानां विदितचरैव । को न जानाति क्रान्तिकारिणां वीरपुङ्गवानां भगतसिंह- चन्द्रशेखर आजाद-रामप्रसाद बिस्मिल - खुदीरामबोस- रासबिहारीघोष-अशफाकउल्लाखाँ - प्रभृतीनां पावनानि पुण्यमयानि चरितानि ?
को वाऽपरिचितो महर्षिदयानन्द-विवेकानन्द- बालगङ्गाधरतिलक- गोपाकृष्णगोखले- लालालाजपतराय-मदनमोहनमालवीय - महात्मागान्धि- जवाहरलाल नेहरू-सुभाषचन्द्रबोस - वल्लभभाईपटेल- राजेन्द्रप्रसादप्रभृतीनां
पुण्यनामभिर् यै मातृभूमिसेवेपरायणैर गृहीतदेशसेवाव्रतैर महाजनैस् तत्कृते का का विपदो नानुभूता ? ऐते महापुरुषाः स्वजन्मभूमेः सर्वमृणं शोधयित्वा इदानीं राष्ट्रदेवालयस्य दृढस्तम्भा इव राजन्ते ।
"वयं तुभ्यं बलिहताः स्याम" इत्यत्र 'वयम्' शब्दः कस्मात्प्रातिपदिकात् निष्पन्नः?
Question 4:
If the perimeter of a circle and a square are equal then-
एक वृत्त तथा एक वर्ग का परिमाप बराबर (एकसमान) हैं तो-
Question 5:
While reading a text the ability to locate details, places, names, dates/times etc. is
Question 6:
प्राथमिकस्तरीय अध्यापकः कक्षायां मौनपठन - अपेक्षया उच्चैः स्वरेण पठने ध्यानं केन्द्रितं करोति । इदमस्ति
Question 7:
Pace of learning is :
अधिगम की गतिः
Question 8:
Ikaya is an elementary school mathematics teacher. The achievement of girls in her mathematics class has been better than achievement of boys throughout the year. Ikaya should:
इकाया एक प्रारंभिक विद्यालय की गणित की अध्यापिका है। उसकी गणित की कक्षा में वर्षभर लड़कियों की उपलब्धियां लड़कों की उपलब्धियों से बेहतर रहीं। इकाया को :
Question 9:
Question 10:
A teacher designs a test to find out the cause of the poor grades of his learners through a/an